ऋषि : अथर्वा | देवता : भूमि | छन्द : त्रिष्टुप्‚ जगती‚ विराडष्टि‚ शक्वरी‚ जगती आदि
सत्यं बृहद् ऋतमुग्रं दीक्षा तपो ब्रह्मयज्ञः पृथिवीं धारयन्ति
सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ।। १ ।।
असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु
नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ।। २ ।।
यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः
यस्यामिदं जिन्वति प्राणदेजत् सा नो भूमिः पूर्वपेये दधातु ।। ३ ।।
यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः
या बिभर्ति बहुधा प्राणदेजत् सा नो भूमिर्गोष्वप्यन्ने दधातु ।। ४ ।।
यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन्
गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ।। ५ ।।
विश्वम्भरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी
वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ।। ६ ।।
यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम्
सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ।। ७ ।।
यार्णवेधि सलिलमग्र आसीत् यां मायाभिरन्वचरन् मनीषिणः
यस्या हृदयं परमे व्योऽमन् सत्येनावृतममृतं पृथिव्याः
सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ।। ८ ।।
यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति
सा नो भूमिर्भूरिधारा पयोदुहामथो उक्षतु वर्चसा ।। ९ ।।
यामश्विनावभिमातां विष्णुर्यस्यां विचक्रमे
इन्द्रो यां चक्र आत्मनेनमित्रां शचीपतिः
सा नो भूमिर्विसृजतां माता पुत्राय मे पयः ।। १० ।।
गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु
बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम्
अजीतोहतो अक्षतोध्यष्ठां पृथिवीमहम् ।। ११ ।।
यत् ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्जस्तन्वःऽसंबभूवुः
तासु नो धेह्यभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः
पर्जन्यः पिता स उ नः पिपर्तु ।। १२ ।।
यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः
यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात्
सा नो भूमिर्वर्धयद् वर्धमानाः ।। १३ ।।
यो नो द्वेषत् पृथिवि यः पृतन्याद् योऽभिदासान्मनसा यो वधेन
तं नो भूमे रन्धय पूर्वकृत्वरि ।। १४ ।।
त्वज्जातास्त्वयि चरन्ति मर्त्यास् त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः
तवेमे पृथिवी पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य
उद्यन् सूर्यो रश्मिभिरातनोति ।। १५ ।।
ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ।। १६ ।।
विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं धर्मणा धृताम्
शिवां स्योनामनु चरेम विश्वहा ।। १७ ।।
महत् सधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे
महांस्त्वेन्द्रो रक्षत्यप्रमादम्
सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ।। १८ ।।
अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु
अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ।। १९ ।।
अग्निर्दिव आ तपत्यग्नेर्देवस्योर्व१न्तरिक्षम्
अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ।। २० ।।
अग्निवासाः पृथिव्य सितज्ञूस्त्विषीमन्तं संशितं मा कृणोतु ।। २१ ।।
भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम्
भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः
सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ।। २२ ।।
यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः
यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ।। २३ ।।
यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे अमर्त्याः पृथिवि
गन्धमग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ।। २४ ।।
यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु
कन्यायां वर्चो यद् भूमे तेनास्माँ अपि सं सृज मा नो द्विक्षत कश्चन ।। २५ ।।
शिला भूमिरश्मा पांसुः मा भूमिः संधुता धृता
तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः ।। २६ ।।
यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा
पृथिवीं विश्वधासयं धृतामच्छावदामसि ।। २७ ।।
उदीराणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः
पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ।। २८ ।।
विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम्
ऊर्जं पुष्टं बिभ्रतीमन्नभागं घृतं त्वाभि निषीदेम भूमे ।। २९ ।।
शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः
पवित्रेण पृथिवि मोत् पुनामि ।। ३० ।।
यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद् याश्च पश्चात्
स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ।। ३१ ।।
मा नः पश्चान्मा पुरस्तान्नुदिष्ठा मोत्तरादधरादुत
स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावया वधम् ।। ३२ ।।
यावत् तेऽभि विपश्यामि भूमे सूर्येण मेदिना
तावन्मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ।। ३३ ।।
यच्छयानः पर्यावर्ते दक्षिणं सव्यमभि भूमे पार्श्वम्
उत्तानास्त्वा प्रतीचीं यत् पृष्टीभिरधिशेमहे
मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ।। ३४ ।।
यत् ते भूमे विखनामि क्षिप्रं तदपि रोहतु
मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् ।। ३५ ।।
ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्तः
ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ।। ३६ ।।
याप सर्पं विजमाना विमृग्वरी यस्यामासन्नग्नयो ये अप्स्व१न्तः
परा दस्यून् ददती देवपीयूनिन्द्रं वृणाना पृथिवी न वृत्रम्
शक्राय दध्रे वृषभाय वृष्णे ।। ३७ ।।
यस्यां सदोहविर्धाने यूपो यस्यां निमीयते
ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विदः
युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ।। ३८ ।।
यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः
सप्त सत्रेण वेधसो यज्ञेन तपसा सह ।। ३९ ।।
सा नो भूमिरा दिशतु यद्धनं कामयामहे
भगोः अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः ।। ४० ।।
यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः
युध्यन्ते यस्यामाक्रन्द्रो यस्यां वदति दुन्दुभिः
सा नो भूमिः प्रणुदतां सपत्नानसपत्नं मा पृथिवी कृणोतु ।। ४१ ।।
यस्यामन्नं ब्रीहियवौ यस्या इमाः पञ्च कृष्टयः
भूम्यै पर्जन्यपत्न्यै नमोऽतु वर्षमेदसे ।। ४२ ।।
यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते
प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ।। ४३ ।।
निधिं बिभ्रती बहुधा गुहावसु मणिं हिरण्यं पृथिवी ददातु मे
वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ।। ४४ ।।
जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम्
सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ।। ४५ ।।
यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये क्रिमिर्जिन्वत्
पृथिवि यद्यदेजति प्रावृषि तन्नः सर्पन्मोप सृपद् यच्छिवं तेन नो मृड ।। ४६ ।।
ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे
यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ।। ४७ ।।
मल्वं बिभ्रती गुरुभृद् भद्रपापस्य निधनं तितिक्षुः
वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ।। ४८ ।।
ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति
उलं वृकं पृथिवि दुच्छुनामित ऋक्षीकां रक्षो अप बाधयास्मत् ।। ४९ ।।
ये गन्धर्वा अप्सरसो ये चारायः किमीदिनः
पिशाचान्त्सर्वा रक्षांसि तानस्मद् भूमे यावय ।। ५० ।।
यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि
यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान्
वातस्य प्रवामुपवामनु वात्यर्चि ।। ५१ ।।
यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि
वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ।। ५२ ।।
द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः
अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ।। ५३ ।।
अहमस्मि सहमान उत्तरो नाम भूम्याम्
अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ।। ५४ ।।
अदो यद् देवि प्रथमाना पुरस्ताद् देवैरुक्ता व्यसर्पो महित्वम्
आ त्वा सुभूतमविशत् तदानीमकल्पयथाः प्रदिशश्चतस्रः ।। ५५ ।।
ये ग्रामा यदरण्यं याः सभा अधि भूम्याम्
ये संग्रामाः समितयस्तेषु चारु वदेम ते ।। ५६ ।।
अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत
मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ।। ५७ ।।
यद् वदामि मधुमत् तद् वदामि यदीक्षे तद् वनन्ति मा
त्विषीमानस्मि जुतिमानवान्यान् हन्मि दोधतः ।। ५८ ।।
शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती
भूमिरधि ब्रवीतु मे पृथिवी पयसा सह ।। ५९ ।।
यामन्वैच्छद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम्
भुजिष्यं १ पात्रं निहितं गुहा यदाविर्भोगे अभवन्मातृमद्भ्यः ।। ६० ।।
त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना
यत् त ऊनं तत् त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ।। ६१ ।।
उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः
दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम् ।। ६२ ।।
भूमे मातर्निधेहि मा भद्रया सुप्रतिष्ठितम्
संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ।। ६३ ।।
अथर्ववेद : भूमिसूक्त बारहवाँ काण्ड‚ प्रथम सूक्त