यज्जाग्रतो
दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ।
दूरङ्गमं
ज्योतिषां ज्योतिरेकं तन्मे मनः
शिवसङ्कल्पमस्तु ॥१॥
येन
कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यदपूर्वं
यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥२॥
यत्प्रज्ञानमुत
चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ।
यस्मान्नऽऋते
किं चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥३॥
येनेदं भूतं
भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् ।
येन
यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥४॥
यस्मिन्नृचः
साम यजूषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः ।
यस्मिँश्चित्त सर्वमोतं प्रजानां
तन्मे मनः शिवसङ्कल्पमस्तु ॥५॥
सुषारथिरश्वानिव
यन्मनुष्या᳖न्नेनीयतेऽभीशुभिर्वाजिनऽइव
।
हृत्प्रतिष्ठं
यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥६॥