मुखपृष्ठ > योगदर्शन |
पातञ्जल योग दर्शन : समाधिपाद (प्रथम अध्याय) ।।
SANSKRITJAGAT 16/05/2021 | 02:23 PM
0
- अथ योगानुशासनम् ॥१.१॥
-
योगश्चित्तवृत्तिनिरोधः ॥१.२॥
-
तदा द्रष्टु: स्वरुपेSवस्थानम् ॥१.३॥
-
वृत्तिसारूप्यम् इतरत्र ॥ १.४ ॥
-
वृत्तयः पञ्चतय्यः क्लिष्टाSक्लिष्टा: ॥ १.५॥
-
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ १.६ ॥
-
प्रत्यक्षानुमानागमाः प्रमाणानि ॥१.७॥
-
विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् ॥१.८॥
-
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥१.९॥
-
अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥१.१०॥
-
अनुभूतविषयासंप्रमोष: स्मृतिः ॥१.११॥
-
अभ्यासवैराग्याभ्यां तन्निरोधः ॥१.१२॥
-
तत्र स्थितौ यत्नोऽभ्यास: ॥१.१३॥
-
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥१.१४॥
-
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥१.१५॥
-
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥१.१६ ॥
-
वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥१.१७॥
-
विरामप्रत्ययाभ्यासपूर्व: संस्कारशेषोSन्यः ॥१.१८॥
-
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१.१९॥
-
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥१.२०॥
-
तीव्रसंवेगानाम् आसन्न: ॥ १.२१॥
-
मृदुमध्याधिमात्रत्वात् ततोSपि विशेषः ॥ १.२२॥
-
ईश्वरप्रणिधानाद्वा ॥ १.२३॥
-
क्लेशकर्मविपाकाशयैरपरामृष्ट: पुरुषविशेष ईश्वरः ॥१.२४॥
-
तत्र निरतिशयं सर्वज्ञबीजम्॥१.२५॥
-
पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात्॥१.२६॥
-
तस्य वाचकः प्रणवः॥१.२७॥
-
तज्जपस्तदर्थभावनम्॥१.२८॥
-
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च॥१.२९॥
-
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः॥१.३०॥
-
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः॥१.३१॥
-
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः॥३२॥
-
मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्॥१.३३॥
-
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य॥१.३४॥
-
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी॥१.३५॥
-
विशोका वा ज्योतिष्मती ॥१.३६॥
-
वीतरागविषयं वा चित्तम्॥१.३७॥
-
स्वप्ननिद्राज्ञानालम्बनं वा॥१.३८॥
-
यथाभिमतध्यानाद्वा ॥१.३९॥
-
परमाणु परममहत्त्वान्तोऽस्य वशीकारः॥१.४०॥
-
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिः॥१.४१॥
-
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः॥१.४२॥
-
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का॥१.४३॥
-
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता॥१.४४॥
-
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्॥१.४५॥
-
ता एव सबीजः समाधिः॥१.४६॥
-
निर्विचारवैशारद्येऽध्यात्मप्रसादः॥१.४७॥
-
ऋतम्भरा तत्र प्रज्ञा॥१.४८॥
-
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्॥१.४९॥
-
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी॥१.५०॥
-
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः॥१.५१॥
सुझाव व टिप्पणियाँ
प्रश्न करें या सलाह दें