ऋषि : गोपवन आत्रेय सप्तवध्रि | देवता : नदियाँ (विपाशा‚ शुतुद्री) | छन्द : पङ्क्ति‚ त्रिष्टुप्‚ उष्णिक्
प्र पर्वतानामुशती उपस्थादश्वेइव विषिते हासमाने
गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पयसा जवेते ।। १ ।।
इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः
समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ।। २ ।।
अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्स
वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ।। ३ ।।
एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः
न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ।। ४ ।।
रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः
प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ।। ५ ।।
इन्द्रो अस्माँ अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम्
देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ।। ६ ।।
प्रवाच्यं शश्वधा वीर्यं१ तदिन्द्रस्य कर्म यदहिं विवृश्चत्
वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः ।। ७ ।।
एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि
उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ।। ८ ।।
ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन
नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ।। ९ ।।
आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन
नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ।। 10 ।।
यदङ्ग त्वा भरताः संतरेयुर्गव्यन्ग्राम इषित इन्द्रजूतः
अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ।। 11 ।।
अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम्
प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ।। १२ ।।
उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत
मादुष्कृतौ व्येनसाऽघ्न्यौ शूनमारताम् ।। १३ ।।
ऋग्वेद :
मण्डल क्रम – तृतीय मण्डल । तैंतीसवाँ सूक्त । (तृतीय अनुवाक)
अष्टक क्रम – तृतीय अष्टक के द्वितीय अध्याय का बारहवाँ‚ तेरहवाँ‚ चौदहवाँ वर्ग