॥ देवता : इन्द्र: I ऋषि : हिरण्यस्तूप आङ्गिरसः I छन्द : विराट्त्रिष्टुप् I स्वर : धैवतः ॥
इन्द्रस्य नु
वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री ।
अहन्नहिमन्वपस्ततर्द
प्र वक्षणा अभिनत्पर्वतानाम् ॥ ०१
अहन्नहिं
पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव
धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥ ०२
वृषायमाणोऽवृणीत
सोमं त्रिकद्रुकेष्वपिबत्सुतस्य ।
आ सायकं
मघवादत्त वज्रमहन्नेनं प्रथमजा महीनाम् ॥ ०३
यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः
प्रोत मायाः ।
आत्सूर्यं
जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ॥ ०४
अहन्वृत्रं
वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन ।
स्कन्धांसीव
कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः ॥ ०५
अयोद्धेव
दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् ।
नातारीदस्य
समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥ ०६
अपादहस्तो
अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान ।
वृष्णो वध्रिः
प्रतिमानं बुभूषन्पुरुत्रा वृत्रो अशयद्व्यस्तः ॥ ०७
नदं न
भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः ।
याश्चिद्वृत्रो
महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीर्बभूव ॥ ०८
नीचावया
अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार ।
उत्तरा सूरधरः
पुत्र आसीद्दानुः शये सहवत्सा न धेनुः ॥ ०९
अतिष्ठन्तीनामनिवेशनानां
काष्ठानां मध्ये निहितं शरीरम् ।
वृत्रस्य
निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥ १०
दासपत्नीरहिगोपा
अतिष्ठन्निरुद्धा आपः पणिनेव गावः ।
अपां
बिलमपिहितं यदासीद्वृत्रं जघन्वाँ अप तद्ववार ॥ ११
अश्व्यो वारो
अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन्देव एकः ।
अजयो गा अजयः
शूर सोममवासृजः सर्तवे सप्त सिन्धून् ॥ १२
नास्मै
विद्युन्न तन्यतुः सिषेध न यां मिहमकिरद्ध्रादुनिं च ।
इन्द्रश्च
यद्युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ॥ १३
अहेर्यातारं
कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत् ।
नव च यन्नवतिं
च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥ १४
इन्द्रो
यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
सेदु राजा क्षयति
चर्षणीनामरान्न नेमिः परि ता बभूव ॥ १५