॥ देवता : सूर्यः I ऋषि : कुत्स आङ्गिरसः I छन्द : निचृत्त्रिष्टुप् I स्वर : धैवतः
॥
चित्रं
देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः।
आप्रा
द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ ०१
सूर्यो
देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् ।
यत्रा नरो
देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥ ०२
भद्रा अश्वा
हरित: सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
नमस्यन्तो दिव
आ पृष्ठमस्थु: परि द्यावापृथिवी यन्ति सद्यः ॥ ०३
तत्सूर्यस्य
देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार ।
यदेदयुक्त
हरित: सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥ ०४
तन्मित्रस्य
वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।
अनन्तमन्यद्रुशदस्य
पाज: कृष्णमन्यद्धरित: सं भरन्ति ॥ ०५
अद्या देवा
उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् ।
तन्नो मित्रो
वरुणो मामहन्तामदिति: सिन्धु: पृथिवी उत द्यौः ॥ ०६