॥ देवता : वरुणः I ऋषि : शुनःशेप आजीगर्तिः I छन्द : गायत्री I स्वर : षड्जः ॥
यच्चिद्धि ते
विशो यथा प्र देव वरुण व्रतम् ।
मिनीमसि द्यविद्यवि ॥ ०१
मा नो वधाय
हत्नवे जिहीळानस्य रीरधः ।
मा हृणानस्य मन्यवे ॥ ०२
वि मृळीकाय ते
मनो रथीरश्वं न संदितम् ।
गीर्भिर्वरुण सीमहि ॥ ०३
परा हि मे
विमन्यवः पतन्ति वस्यइष्टये ।
वयो न वसतीरुप ॥ ०४
कदा
क्षत्रश्रियं नरमा वरुणं करामहे ।
मृळीकायोरुचक्षसम् ॥ ०५
तदित्समानमाशाते
वेनन्ता न प्र युच्छतः ।
धृतव्रताय दाशुषे ॥ ०६
वेदा यो वीनां
पदमन्तरिक्षेण पतताम् ।
वेद नावः समुद्रियः ॥ ०७
वेद मासो
धृतव्रतो द्वादश प्रजावतः ।
वेदा य उपजायते ॥ ०८
वेद वातस्य
वर्तनिमुरोर्ऋष्वस्य बृहतः ।
वेदा ये अध्यासते ॥ ०९
नि षसाद
धृतव्रतो वरुणः पस्त्या३स्वा ।
साम्राज्याय सुक्रतुः ॥ १०
अतो
विश्वान्यद्भुता चिकित्वाँ अभि पश्यति ।
कृतानि या च कर्त्वा ॥ ११
स नो विश्वाहा
सुक्रतुरादित्यः सुपथा करत् ।
प्र ण आयूंषि तारिषत् ॥ १२
बिभ्रद्द्रापिं
हिरण्ययं वरुणो वस्त निर्णिजम् ।
परि स्पशो निषेदिरे ॥ १३
न यं
दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् ।
न देवमभिमातयः ॥ १४
उत यो
मानुषेष्वा यशश्चक्रे असाम्या ।
अस्माकमुदरेष्वा ॥ १५
परा मे यन्ति
धीतयो गावो न गव्यूतीरनु ।
इच्छन्तीरुरुचक्षसम् ॥ १६
सं नु वोचावहै
पुनर्यतो मे मध्वाभृतम् ।
होतेव क्षदसे प्रियम् ॥ १७
दर्शं नु
विश्वदर्शतं दर्शं रथमधि क्षमि ।
एता जुषत मे गिरः ॥ १८
इमं मे वरुण
श्रुधी हवमद्या च मृळय ।
त्वामवस्युरा चके ॥ १९
त्वं विश्वस्य
मेधिर दिवश्च ग्मश्च राजसि ।
स यामनि प्रति श्रुधि ॥ २०
उदुत्तमं
मुमुग्धि नो वि पाशं मध्यमं चृत ।
अवाधमानि जीवसे ॥ २१