मुखपृष्‍ठ > ऋक्सूक्त |

सूर्यसूक्त : ऋग्वेद ०१/११५

  SANSKRITJAGAT     02/09/2021 | 01:23 PM   0

 देवता : सूर्यः I  ऋषि : कुत्स आङ्गिरसः I  छन्द : निचृत्त्रिष्टुप् I स्वर : धैवतः ॥

 


चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः।

आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ ०१


सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् ।

यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥ ०२


भद्रा अश्वा हरित: सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।

नमस्यन्तो दिव आ पृष्ठमस्थु: परि द्यावापृथिवी यन्ति सद्यः ॥ ०३


तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार ।

यदेदयुक्त हरित: सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥ ०४


तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।

अनन्तमन्यद्रुशदस्य पाज: कृष्णमन्यद्धरित: सं भरन्ति ॥ ०५


अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् ।

तन्नो मित्रो वरुणो मामहन्तामदिति: सिन्धु: पृथिवी उत द्यौः ॥ ०६



मिलते जुलते लेख
वरुणसूक्त : ऋग्वेद ०१/२५
इन्द्रसूक्त : ऋग्वेद ०१/३२
वाक् सूक्त : १०|१२५

सुझाव व टिप्‍पणियाँ

प्रश्न करें या सलाह दें