- अथ योगानुशासनम् ॥१.१॥
- योगश्चित्तवृत्तिनिरोधः ॥१.२॥
- तदा द्रष्टु: स्वरुपेSवस्थानम् ॥१.३॥
- वृत्तिसारूप्यम् इतरत्र ॥ १.४ ॥
- वृत्तयः पञ्चतय्यः क्लिष्टाSक्लिष्टा: ॥ १.५॥
- प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ १.६ ॥
- प्रत्यक्षानुमानागमाः प्रमाणानि ॥१.७॥
- विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् ॥१.८॥
- शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥१.९॥
- अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥१.१०॥
- अनुभूतविषयासंप्रमोष: स्मृतिः ॥१.११॥
- अभ्यासवैराग्याभ्यां तन्निरोधः ॥१.१२॥
- तत्र स्थितौ यत्नोऽभ्यास: ॥१.१३॥
- स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥१.१४॥
- दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥१.१५॥
- तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥१.१६ ॥
- वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥१.१७॥
- विरामप्रत्ययाभ्यासपूर्व: संस्कारशेषोSन्यः ॥१.१८॥
- भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१.१९॥
- श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥१.२०॥
- तीव्रसंवेगानाम् आसन्न: ॥ १.२१॥
- मृदुमध्याधिमात्रत्वात् ततोSपि विशेषः ॥ १.२२॥
- ईश्वरप्रणिधानाद्वा ॥ १.२३॥
- क्लेशकर्मविपाकाशयैरपरामृष्ट: पुरुषविशेष ईश्वरः ॥१.२४॥
- तत्र निरतिशयं सर्वज्ञबीजम्॥१.२५॥
- पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात्॥१.२६॥
- तस्य वाचकः प्रणवः॥१.२७॥
- तज्जपस्तदर्थभावनम्॥१.२८॥
- ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च॥१.२९॥
- व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः॥१.३०॥
- दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः॥१.३१॥
- तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः॥३२॥
- मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्॥१.३३॥
- प्रच्छर्दनविधारणाभ्यां वा प्राणस्य॥१.३४॥
- विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी॥१.३५॥
- विशोका वा ज्योतिष्मती ॥१.३६॥
- वीतरागविषयं वा चित्तम्॥१.३७॥
- स्वप्ननिद्राज्ञानालम्बनं वा॥१.३८॥
- यथाभिमतध्यानाद्वा ॥१.३९॥
- परमाणु परममहत्त्वान्तोऽस्य वशीकारः॥१.४०॥
- क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिः॥१.४१॥
- तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः॥१.४२॥
- स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का॥१.४३॥
- एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता॥१.४४॥
- सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्॥१.४५॥
- ता एव सबीजः समाधिः॥१.४६॥
- निर्विचारवैशारद्येऽध्यात्मप्रसादः॥१.४७॥
- ऋतम्भरा तत्र प्रज्ञा॥१.४८॥
- श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्॥१.४९॥
- तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी॥१.५०॥
- तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः॥१.५१॥
पातञ्जल योग दर्शन : समाधिपाद (प्रथम अध्याय) ।।
✍ संस्कृतजगत्📅 16 मई 2021⏱ 2 मिनट👁 1
लेख पसंद आया? ♥ दबाएँ (लॉगिन आवश्यक)
टिप्पणियाँ (0)
अभी कोई टिप्पणी नहीं। पहली टिप्पणी आप लिखें।