- तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥२.१॥
- समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥२.२॥
- अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥२.३॥
- अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥२.४॥
- अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥२.५॥
- दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥२.६॥
- दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥२.७॥
- दुःखानुशयी द्वेषः ॥२.८॥
- स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥२.९॥
- ते प्रतिप्रसवहेयाः सूक्ष्माः ॥२.१०॥
- ध्यानहेयास्तद्वृत्तयः ॥२.११॥
- क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥२.१२॥
- सति मूले तद्विपाको जात्यायुर्भोगाः ॥२.१३॥
- ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥२.१४॥
- परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥२.१५॥
- हेयं दुःखमनागतम् ॥२.१६॥
- द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥१७॥
- प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥२.१८॥
- विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥२.१९॥
- द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२.२०॥
- तदर्थ एव दृश्यस्यात्मा ॥२.२१॥
- कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥२.२२॥
- स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२.२३॥
- तस्य हेतुरविद्या ॥२.२४॥
- तदभावात् संयोगाभावो हानं तद् दृशेः कैवल्यम् ॥२.२५॥
- विवेकख्यातिरविप्लवा हानोपायः ॥२.२६॥
- तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥२.२७॥
- योगाङ्गाऽनुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२.२८॥
- यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥२.२९॥
- अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥२.३०॥
- जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥२.३१॥
- शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥२.३२॥
- वितर्कबाधने प्रतिपक्षभावनम् ॥२.३३॥
- वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥२.३४॥
- अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥२.३५॥
- सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥२.३६॥
- अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥२.३७॥
- ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥२.३८॥
- अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥२.३९॥
- शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥२.४०॥
- सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥२.४१॥
- संतोषादनुत्तमसुखलाभः ॥२.४२॥
- कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ २.४३॥
- स्वाध्यायाद् इष्टदेवतासंप्रयोगः ॥ २.४४॥
- समाधिसिद्धिरीश्वरप्रणिधानात् ॥ २.४५॥
- स्थिरसुखम् आसनम् ॥२.४६॥
- प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ २.४७॥
- ततो द्वन्द्वानभिघातः ॥ २.४८॥
- तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ २.४९॥
- बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥२.५०॥
- बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥२.५१॥
- ततः क्षीयते प्रकाशावरणम् ॥ २.५२॥
- धारणासु च योग्यता मनसः ॥ २.५३॥
- स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥२.५४॥
- ततः परमा वश्यतेन्द्रियाणाम् ॥ २.५५॥
पातञ्जल योग दर्शन : साधनपाद (द्वितीय अध्याय) ।।
✍ संस्कृतजगत्📅 17 मई 2021⏱ 2 मिनट👁 0
लेख पसंद आया? ♥ दबाएँ (लॉगिन आवश्यक)
टिप्पणियाँ (0)
अभी कोई टिप्पणी नहीं। पहली टिप्पणी आप लिखें।