- देशबन्धश्चित्तस्य धारणा ॥३.१॥
- तत्र प्रत्ययैकतानता ध्यानम् ॥३.२॥
- तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥३.३॥
- त्रयमेकत्र संयमः ॥३.४॥
- तज्जयात्प्रज्ञालोकः ॥३.५॥
- तस्य भूमिषु विनियोगः ॥३.६॥
- त्रयमन्तरङ्गं पूर्वेभ्यः ॥३.७॥
- तदपि बहिरङ्गं निर्बीजस्य ॥३.८॥
-
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥३.९॥
- तस्य प्रशान्तवाहिता संस्कारात् ॥३.१०॥
- सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥३.११॥
- ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥३.१२॥
- एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥३.१३॥
- शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥३.१४॥
- क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥३.१५॥
- परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥३.१६॥
- शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥३.१७॥
- संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥३.१८॥
- प्रत्ययस्य परचित्तज्ञानम् ॥३.१९॥
- न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥३.२०॥
- कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम् ॥३.२१॥
- सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥३.२२॥
- मैत्र्यादिषु बलानि ॥३.२३॥
- बलेषु हस्तिबलादीनि ॥३.२४॥
- प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥३.२५॥
- भुवनज्ञानं सूर्ये संयमात् ॥३.२६॥
- चन्द्रे ताराव्यूहज्ञानम् ॥३.२७॥
- ध्रुवे तद्गतिज्ञानम् ॥३.२८॥
- नाभिचक्रे कायव्यूहज्ञानम् ॥३.२९॥
- कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥३.३०॥
- कूर्मनाड्यां स्थैर्यम् ॥३.३१॥
- मूर्धज्योतिषि सिद्धदर्शनम् ॥३.३२॥
- प्रातिभाद्वा सर्वम् ॥३.३३॥
- हृदये चित्तसंवित् ॥३.३४॥
- सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥३.३५॥
- ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥३.३६॥
- ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥३.३७॥
- बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३.३८॥
- उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥३.३९॥
- समानजयाज्ज्वलनम् ॥३.४०॥
- श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥३.४१॥
- कायाकाशयोः सम्बन्धसंयमाल्लघुतूल- समापत्तेश्चाकाशगमनम् ॥३.४२॥
- बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥३.४३॥
- स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥३.४४॥
- ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥३.४५॥
- रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥३.४६॥
- ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥३.४७॥
- ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥३.४८॥
- सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥३.४९॥
- तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥३.५०॥
- स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥३.५१॥
- क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥३.५२॥
- जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥३.५३॥
- तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् ॥३.५४॥
- सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥३.५५॥
पातञ्जल योग दर्शन : विभूतिपाद (तृतीय अध्याय) ।।
✍ संस्कृतजगत्📅 18 मई 2021⏱ 2 मिनट👁 0
लेख पसंद आया? ♥ दबाएँ (लॉगिन आवश्यक)
टिप्पणियाँ (0)
अभी कोई टिप्पणी नहीं। पहली टिप्पणी आप लिखें।