- जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥४.१॥
- जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥४.२॥
- निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥४.३॥
- निर्माणचित्तान्यस्मितामात्रात् ॥४.४॥
- प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥४.५॥
- तत्र ध्यानजमनाशयम् ॥४.६॥
- कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥४.७॥
- ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥४.८॥
- जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥४.९॥
- तासामनादित्वं चाशिषो नित्यत्वात् ॥४.१०॥
- हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥४.११॥
- अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥४.१२॥
- ते व्यक्तसूक्ष्मा गुणात्मानः ॥४.१३॥
- परिणामैकत्वाद्वस्तुतत्त्वम् ॥४.१४॥
- वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥४.१५॥
- न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥४.१६॥
- तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥४.१७॥
- सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥४.१८॥
- न तत्स्वाभासं दृश्यत्वात् ॥४.१९॥
- एकसमये चोभयानवधारणम् ॥४.२०॥
- चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥४.२१॥
- चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥४.२२॥
- द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥४.२३॥
- तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥४.२४॥
- विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥४.२५॥
- तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥४.२६॥
- तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥४.२७॥
- हानमेषां क्लेशवदुक्तम् ॥४.२८॥
- प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥४.२९॥
- ततः क्लेशकर्मनिवृत्तिः ॥४.३०॥
- तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥४.३१॥
- ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥४.३२॥
- क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥४.३३॥
- पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥४.३४॥
पातञ्जल योग दर्शन : कैवल्यपाद (चतुर्थ अध्याय) ।।
✍ संस्कृतजगत्📅 18 मई 2021⏱ 2 मिनट👁 0
लेख पसंद आया? ♥ दबाएँ (लॉगिन आवश्यक)
टिप्पणियाँ (0)
अभी कोई टिप्पणी नहीं। पहली टिप्पणी आप लिखें।